||Sundarakanda ||

|| Sarga 38||(Slokas in Devanagari )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुंदरकांड.
अथ अष्टत्रिंशस्सर्गः

ततः स कपिशार्दूलः तेन वाक्येन हर्षितः।
सीतामुवाच तत् श्रुत्वा वाक्यं वाक्य विशारदः॥1||

युक्तरूपं त्वया देवि भाषितं शुभदर्शने।
सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च॥2||

स्त्रीत्वं न तु समर्थ हि सागरं व्यतिवर्तितुम्।
मा मधिष्ठाय विस्तीर्णं शतयोजन मायतम्॥3||

द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते।
रामात् अन्यस्य नार्हामि संस्पर्शमिति जानकि॥4||

एतत् ते देवि सदृशं पत्न्यास्तस्य महात्मनः।
का ह्यान्या त्वा मृते देवि ब्रूयात् वचन मीदृशम् ॥5||

श्रोष्यते चैव काकुत्‍स्थः सर्वं निरवशेषतः।
चेष्ठितं य त्वया देवि भाषितं ममचाग्रतः॥ 6||

कारणैर्बहुभिर्देवि रामप्रिय चिकीर्षया।
स्नेहप्रस्कन्न मनसा मयैतत् समुदीरितम्॥7||

लंकाया दुष्प्रवेशत्वात् दुस्तरत्वान्महोदधे।
सामर्थ्यात् अत्मनश्चैव मयैतत् समुदीरितम्॥8||

इछ्छामि त्वां समानेतुं अद्यैव रघुबंधुना।
गुरुस्नेहेन भक्त्या च नान्यथैतत् उदाहृतम्॥9||

यदि नोत्सहसे यातुं मया सार्थ मनिंदिते।
अब्जिज्ञानं प्रयच्छ त्वं जानीयात् राघवो हि तत्॥10||

एवमुक्ता हनुमता सीता सुरसुतोपमा।
उवाच वचनं मंदं भाष्पप्रग्रथिताक्षरम्॥11||

इदं श्रेष्ठं अभिज्ञानं ब्रूयास्त्वंतु मम प्रियम्।
शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा॥12||

तापसाश्रमवासिन्यां प्राज्यमूलफलोदके।
तस्मिन् सिद्धाश्रमे देशे मंदाकिन्या ह्यदूरतः॥13||

तस्योपवनषंडेषु नानापुष्पसुगंधिषु।
विहृत्य सलिलक्लिन्ना तवांके समुपाविशम्॥14||

ततो मांस समायुक्तो वायसः पर्यतुंडयत्।
त महं लोष्टमुद्यम्य वारयामि स्म वायसम्॥15||

दारयन् स च मां काकः तत्रैव परिलीयते।
न चाप्युपारमन् मांसात् भक्षार्थी बलिभोजनः॥16||

उत्कर्षानां च रशनां क्रुद्धायां मयि पक्षिणि।
स्रस्यमाने च वसने ततो दृष्ट्वा त्वया ह्यहम्॥17||

त्वयापsहसिता चाहं क्रुद्धा संलक्षिता तदा।
भक्षगृध्नेन काकेन दारिता त्वामुपागता॥18||

असीनस्य च ते श्रांता पुनरुत्संगमाविशम्।
क्रुध्यंती च प्रहृष्टेन त्वयाsहं परिसांत्विता॥19||

भाष्पपूर्ण मुखी मंदं चक्षुषी परिमार्जती।
लक्षिताsहं त्वया नाथ वायसेन प्रकोपिता॥20||

परिश्रमात् प्रसुप्ताच राघवांकेsप्यहं चिरम्।
पर्यायेण प्रसुप्तश्च ममांके भरताग्रजः॥21||

स तत्र पुनरे वाथ वायसः समुपागमत्।
ततः सुप्त प्रबुद्धां मां रामस्यांकात् समुत्थितम्॥22||

वायसः सहसागम्य विददार स्तनांतरे।
पुनः पुनरथोत्पत्य विददार स मां भृशम्॥23||

ततः समुत्‍क्षितो रामो मुक्तैः शोणितबिंदुभिः।
वायसेन ततस्तेन बलवत् क्लिश्यमानया॥24||

स मया बोधितः श्रीमान् सुखसंतप्तः परंतपः।
स मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोः तदा॥25||

अशीविष इव क्रुद्धः श्वसन् वाक्य मभाषत।
केन ते नाग नासोरु विक्षतं वै स्तनांतरम्॥26||

कः क्रीडति स रोषेण पंच वक्त्रेण भोगिना।
वीक्षमाणः ततः तं वै वायसं समुदैक्षत॥27||

नखैः सरुधिरैः तीक्ष्‍णैर्मामेवाभिमुखं स्थितम्।
पुत्रः किल स शक्रस्य वायसः पततां वरः॥28||

धरांतरगतः शीघ्रं पवनस्य गतौ समः।
ततः तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः॥29||

वायसे कृतवान् क्रूरां मतिं मतिमतां वरः।
स दर्भं संस्तरात् गृह्य ब्राह्मेणास्त्रेण योजयत्॥30||

स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम्।
स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति॥31||

ततः तं वायसं दर्भस्सोंबरेनुजगाम ह।
अनुश्रुष्टः तदा काको जगाम विविधां गतिम्॥32||

लोककाम इमं लोकं सर्वं वै विचचार ह।
स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः॥33||

त्रीन् लोकान् संपरिक्रम्य तमेव शरणं गतः।
स निपतितं भूमौ शरण्यः शरणागतम्॥34||

वधार्हमपि काकुत्‍स्थः कृपया पर्यपालयत्।
न शर्म लब्ध्वा लोकेषु त मेव शरणं गतः॥35||

परिद्यूनं विषण्णं च स त मायांतं अब्रवीत्।
मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम्॥36||

हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सोब्रवीत्।
ततः तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्॥37||

दत्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितं।
स रामाया नमस्कृत्वा राज्ञे दशरथाय च॥38||

विसृष्टेन वीरेण प्रतिपेदे स्वमालयम्।
मत्कृते काकमात्रेतु ब्रह्मास्त्रं समुदीरितम्॥39||

कस्माद्योमा हरेत् त्वत्तः क्षमसे तं महीपते।
स कुरुष्व महोत्साहः कृपां मयि नरर्षभ॥40||

त्वया नाथवती नाथ ह्यनाथा इव दृश्यते।
अनृशंस्यं परो धर्मः त्वत्त एव मया श्रुतः॥41||

जानामि त्वां महावीर्यं महोत्साहं महाबलम्।
अपारपार मक्षोभ्यं गांभीर्यात् सागरोपमम्॥42||

भर्तारं ससमुद्राया धरण्या वासवोपमम्।
एवमस्त्रविदां श्रेष्ठः सत्ववान् बलवानपि॥43||

किमर्थं अस्त्रं रक्षस्सु न योजयति राघवः।
न नाग नापि गंधर्वा नासुरा न मरुद्गणाः॥44||

रामस्य समरे वेगं शक्ताः प्रतिसमाधितुम्।
तस्य वीर्यवतः कश्चित् यद्यस्ति मयि संभ्रमः॥45||

किमर्थं न शरैः तीक्ष्‍णैः क्षयं नयति राक्षसान्।
भ्रातुरादेशमादाय लक्ष्मणोवा परंतपः॥46||

कस्य हेतोर्नमां वीरं परित्राति महाबलः।
यदि तौ पुरुषव्याघ्रौ वाय्वग्निसम तेजसौ॥47||

सुराणामपि दुर्दर्षौ किमर्थं मामुपेक्षतः।
ममैव दुष्कृतं किंचिन्महदस्ति न संशयः॥48||

समर्था व पि तौ यन्मां नावेक्षेते परंतपौ।
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्॥49||

अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः।
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे॥50||

रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते।
कथंचित् भवती दृष्टा न कालः परिशोचितुम्॥51||

इमं मुहूर्तं दुःखानां द्रक्ष्यस्यंतमनिंदिते।
तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ॥52||

त्वद्दर्शन कृतोत्साहौ लंकां भस्मीकरिष्यतः।
हत्वा च समरे क्रूरं रावणं स बांधवम्॥53||

राघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति।
ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः॥54||

सुग्रीवो वापि तेजस्वी हरयोsपि समागतः।
इत्युक्तवति तस्मिंश्च सीता सुरसुतोपमा॥55||

उवाच शोक संतप्ता हनूमंतं प्लवंगमम्।
कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी॥56||

तं ममार्थे सुखम् पृछ्च शिरसा चाभिवादय।
स्रजश्च सर्वरत्नानि प्रियायाश्च वरांगना॥57||

इश्वर्यं च विशालायां पृथिव्यां अपि दुर्लभम्।
पितरं मातरं चैव सम्मान्याभिप्रसाद्यच॥58||

अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः।
अनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम्॥59||

अनुगच्छति काकुत्‍स्थं भ्रातरं पालयन् वने।
सिंहस्कंधो महाबाहुः मनस्वी प्रियदर्शनः॥60||

पितृवत् वर्तते रामे मातृन्मां समाचरन्।
ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः॥61||

वृद्धोपसेवी लक्ष्मीवान् शक्तोन बहुभाषिता।
राजपुत्त्रः प्रियश्रेष्ठः सदृशः श्वसुरस्यमे॥62||

मम प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः।
नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान्॥63||

यं दृष्ट्वा राघवो नैव वृत्तं आर्यमनुस्मरेत्।
स ममार्थाय कुशलं वक्तव्यो वचनान्मम॥64||

मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः।
यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत्॥65||

त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम॥
राघवः त्वत्समारंभान्मयि यत्नपरो भवेत्॥66||

इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः।
जीवितं धारयिष्यामि मासं दशरथात्मज॥67||

ऊर्ध्वं मासान्न जीवेयं सत्ये नाहं ब्रवीमि ते।
रावणे नोपरुद्धां मां निकृत्या पापकर्मणा॥68||

त्रातुमर्हसि वीर त्वं पाताळादिव कौशिकीम्।
ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम्॥69||

प्रदेयो राघवायेति सीता हनुमते ददौ।
प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम्॥70||

अंगुळ्या योजयामास न ह्यस्य प्राभवद्भुजः।
मणिरत्नं कपिवरः प्रतिगृह्यsभिवाद्य च॥71||

सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः।
हर्षेण महता युक्तः सीता दर्शनजेन सः॥72||

हृदयेन गतो रामं शरीरेण तु विष्ठितः॥73||

मणिवरमुपगृह्य महार्हं जनकनृपात्मजया धृतं प्रभावात्।
गिरिरिव पवनावधूतमुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे॥74||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे अष्टत्रिंशस्सर्गः ॥


|| Om tat sat ||